संस्कृतदिनस्य वृत्तम् । (Sanskrit Day 2020 Report)

सुरस सुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया।

अमृत वाणी संस्कृत भाषा नैव क्लिष्टा न च कठिना।।

          सत्यमेव संस्कृतभाषा न केवला भाषा एषा तु मानवस्य संस्कृति:। भारतसर्वकारस्य शिक्षामन्त्रालयस्य आदेशानुसारं प्रतिवर्षं श्रावण पौर्णिमायां संस्कृतदिनं सम्परिपाल्यते। तस्मादेव सम्पूर्णे विश्वे यत्र यत्र संस्कृतप्रेमिण: सन्ति तत्र तत्र “संस्कृत-दिनम्” इति उत्सव: आचर्यते। केचन संस्कृतसप्ताह: वा मास: वा अपि आचरन्ति।

              एवमेव अस्माकं मुम्बई-विद्यापीठस्य संस्कृत विभागे अपि २०२० वर्षस्य ऑगस्ट मासस्य ३ दिनाङ्के उत्सवारम्भ: अभवत्। प्रतिवर्षं संस्कृतभवने अस्य आयोजनं भवति एव, परन्तु अस्मिन् वर्षे कोरोनाविषाणो: कारणात् जना: त्रस्ता: तथापि ONLINE माध्यमेन उत्सवार्थम् एकत्रीभूता: इत्युक्ते संस्कृते तेषां मातृवत् स्नेह:।

      कार्यक्रमस्य सूत्रसञ्चलनं कुर्वन् आसीत् विभागप्राध्यापकः अजय पेंडसे-महोदयः। ५ वादने मुंबई-विद्यापीठस्य सुश्राव्यगीतेन कार्यक्रमस्य प्रारम्भ: जात: । प्रास्ताविकभाषणं तथा सर्वेषां स्वागतं कृतं विभागप्रमुखया डॉ. सुचित्रा ताजणे-महोदयया। तया एव सप्ताहे अस्मिन् या संस्कृत व्याख्यानमाला आयोजिता अस्ति, तस्या: परिचय: उक्त:। ४ ऑगस्टत: ९ ऑगस्ट २०२० पर्यन्तम् अस्यां व्याख्यानमालायां मुम्बई-विद्यापीठस्य भूतपूर्वा: प्राध्यापका: संस्कृतसंशोधनस्य अन्तरङ्गम् एतद्विषयमधिकृत्य व्याख्यानानि प्रदास्यन्ति।

            अनन्तरं कार्यक्रमे ये नैके मान्यवराः उपस्थिता: आसन् तेषां सर्वेषां परिचय: कारित: विभागस्य मान्यया डॉ. माधवी नरसाळे-महोदयया। अस्माकं भाग्यमासीद्यद्विद्यापीठकुलगुरुः सुहास पेडणेकर-महोदयाः कार्यक्रमे अध्यक्षरूपेण उपस्थिताः आसन्। संस्कृतकार्यार्थं सदैव तत्परः भविष्यामि इति उक्त्वा संस्कृतमहत्त्वं प्रकटयन् तैः वयं उद्बोधिताः।

तदनन्तरं मुंबई-विद्यापीठस्य मानव्यशाखायाः अधिष्ठातारः माननीयाः डॉ. राजेश खरात-महोदयाः संस्कृतस्य प्रचार: प्रसार: नैकेषु देशेषु कथं कर्तुं शक्यते इति विषयमधिकृत्य न: उद्बोधितवान्।

   कार्यक्रमे प्रमुखातिथिपदं भूषितवन्त: संस्कृत-भारती-कार्यकर्तार: माननीया: शिरीष भेडसगावकर महोदया:। प्रधानमन्त्री महोदयस्य tweet सन्देशेन तै: भाषणारम्भ: कृत:। संस्कृतं न केवलं विद्यापीठार्थं मर्यादितम्। प्रतिगृहं संस्कृतं भवेत् इति महोदयस्य आशय: आसीत्। इदानीन्तनकाले सर्वे ज्ञातवन्त: यद् श्रीमद्भगवद्गीता अस्मिन् वतावरणे मानवेषु सामर्थ्यं निर्माति। अतः अधिकाः जनाः संस्कृतं पठितुमिच्छन्ति। महोदयेन एतं विषयं स्वीकृत्य सुमधुरं व्याख्यानं प्रोक्तम्। तेषां शब्दै: वयं नन्दिता: पप्रेरिता: च।

       अन्ते विभाग प्राध्यापिकया डॉ. शकुन्तला गावडे-महोदयया आभारप्रदर्शनं कृतम्। एवं मुम्बई-विद्यापीठस्य संस्कृत सप्ताहस्य उत्सवस्य महता उत्साहेन प्रारम्भ: जात:।

वृत्ताङ्कनम्- नीरज संजय सावंत

Sanskrit Saptah Samaroha
Today, 3rd August, 2020 on the occasion of Sanskrit Dinam, this week long ceremony started. This year due to the pandemic, this programme was held online. Dr. Suchitra Tajane Head of the Department of Sanskrit, University of Mumbai addressed the audience.  It was graced by many dignitaries. Honourable Vice Chancellor Dr.Suhasji Pednekar addressed the audience saying  “Sanskrit is a wealth to the whole world and its literature are the gems in it. It is our duty to hand it over to the coming generations.”
The Dean of the Department of Humanities Shri Rajesh Kharat and Vice Chancellor of the Kavikulguru Kalidas University Shri Shrinivas Varakhedi also graced the occasion. The Chief guest for today’s function Shri Shirish Bhedasgaonkar was introduced by Dr. Madhavi Narsalay Madam.
Shri  Bhedasgaonkar began his speech by quoting Prime Minister Shri Narendra Modi’s Tweet commending everyone who teaches and learns Sanskrit. He said that Sanskrit is the language of our culture. Shri  Bhedasgaonkar remarked that generally scholars and teachers are commended for their work but the PM has commended the students which is very encouraging. He said “Today everyone is trying to cope with the pandemic in their own ways. A few days back I read in the news that an American politician has resorted to reading the Bhagavadgita to find mental peace and urges everyone to do the same. Especially the youth.”
The vote of thanks was given by Dr Shakuntala Gawde.

Report by Kashmira Kailashi

Trackback 1

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP