संस्कृतसप्ताहसमारोहवृत्तान्त:।

मुम्बई-विद्यापीठस्य संस्कृत विभागे २०२० वर्षस्य ऑगस्ट मासस्य ३ दिनाङ्के संस्कृतसप्ताहस्यारम्भ: जातः। ५ वादने मुंबई-विद्यापीठस्य सुश्राव्यगीतेन कार्यक्रमारम्भ: अभवत् । कोरोनाकारणात् आभासीमाध्यमेन (ONLINE) अभवत् एषः कार्यक्रमः। प्रास्ताविकभाषणं तथा सर्वेषां स्वागतं कृतं विभागप्रमुखया डॉ. सुचित्रा ताजणे-महोदयया। तया एव सप्ताहे अस्मिन् या मुम्बई-विद्यापीठसंस्कृतस्त्रीवैभवम्  व्याख्यानमाला आयोजितास्ति, तस्या: परिचय: उक्त:। ४ ऑगस्टत: ९ ऑगस्ट २०२० पर्यन्तम् अस्यां व्याख्यानमालायां मुम्बई-विद्यापीठस्य भूतपूर्वा: प्राध्यापिका: संस्कृतसंशोधनस्य अन्तरङ्गम् एतद्विषयमधिकृत्य व्याख्यानानि प्रदास्यन्ति।  

            अनन्तरं कार्यक्रमे ये नैके मान्यवराः उपस्थिता: आसन् तेषां सर्वेषां परिचय: कारित: विभागस्य मान्यया डॉ. माधवी नरसाळे-महोदयया। अस्माकं भाग्यमासीद्यद्विद्यापीठकुलगुरुः डॉ. सुहास पेडणेकर-महोदयाः कार्यक्रमे अध्यक्षरूपेण उपस्थिताः आसन्। संस्कृतकार्यार्थं सदैव तत्परः भविष्यामि इति उक्त्वा संस्कृतमहत्त्वं प्रकटयन् तैः वयं उद्बोधिताः। मुंबई-विद्यापीठस्य मानव्यशाखायाः अधिष्ठातारः माननीयाः डॉ. राजेश खरात-महोदयाः संस्कृतस्य प्रचार: प्रसार: नैकेषु देशेषु कथं कर्तुं शक्यते इति विषयमधिकृत्य न: उद्बोधितवान्।

   कार्यक्रमे प्रमुखातिथिपदं भूषितवन्त: संस्कृत-भारती-कार्यकर्तार: माननीया: शिरीष भेडसगावकर महोदया:। तै: तेषामनुभवानि उपस्थापितानि।

डॉ. समीरा गुजर महोदया भरतमुने: नाट्यशास्त्रवचनान् तस्या: नाट्यक्षेत्रे  कथम् अनुभूतवती तद् प्रथमपुष्परुपेण मालायामस्मिन् गुम्फितवती। साहित्याभ्यासस्य दिशा तया दर्शिता।

द्वितीयपुष्पं गुम्फितं डॉ. धनश्री लेले-महोदयया। तस्याः निवेदनक्षेत्रे कथं संस्कृतस्य सम्बन्धः वर्तते तथा संशोधनं कीदृशं भवेत् इति विषयमनुसृत्य सा स्वविचारान् प्रकटितवती।

तृतीयपुष्पं गुम्फितुं हस्तलिखितशास्त्रेषु नुतनमार्गः अस्मिन् विषये बोधयितुं डॉ. परिणीता देशपांडे-महोदया उपस्थितासीत्।

संस्कृतसाहित्ये कथं संशोधनं कर्तुं शक्यते अस्मिन् विषये पथदर्शनार्थमुपस्थितासीत् डॉ. मञ्जुषा गोखले-महोदया।

सुसुन्दरेण PPT माध्यमेन वैदिक वाङ्मये नैकानि संशोधनानि भवितुमर्हतीति सन्देशं दत्तवती भूतपूर्वा विभागप्रमुखा डॉ.गौरी माहुलीकर-महाभागा।

अन्तिमं पुष्पं प्रगुम्फ्य व्याख्यानमाला पूर्णा कृता डॉ. उमा वैद्य-महोदयया। संशोधनस्य हेतुः कः? का तस्य अवस्था तथैव व्याकरणविषयेSपि संशोधनं अस्माभिः कर्तव्यमेव इति महोदयायाः आशयः आसीत्।

एवं नैकान् छात्रान् तथा प्राध्यापकान् संशोधनार्थं सम्प्रेर्य संस्कृतविभागस्य स्वाध्याययज्ञः पूर्णः न अपितु आरब्ध:।

वृत्ताङ्कनम्- नीरज सावंत ।

Trackback 2

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP