।।हरिः ॐ।।
सर्वेभ्यो नमः।
संस्कृतभारत्याः कोङ्कप्रान्ते विद्यानगरी जनपदे संस्कृतभवनं, मुम्बै विश्वविद्यालयः इत्यत्र मुम्बै विश्वविद्यालयः तथा संस्कृतभारती इत्यनयोः संयुक्त-विद्यमानेन १ तः १० एप्रिल २०२५ दिनाङ्क पर्यन्तं संस्कृत-सम्भाषणशिबिरम् आयोजितम्।
सम्भाषणशिबिरस्य आरम्भे मुख्य अतिथिरुपेण मान्या डॉ. शकुन्तला गावडे महोदया, मान्या प्रा. रेणुका पांचाल महोदया, मान्यः प्रा. अजयः पेंडसे महोदयः च आगत्य दीपप्रज्वालेन शिबिरस्य उद्घाटनं कृतवन्तः। संस्कृतभारती पक्षतः मुम्बादेवी अध्यक्षा डॉ. अनुजा पुरंदरे, विद्यानगरी-जनपद-संयोजिका मन्दाकिनी मोधे च उपस्थिते आस्ताम्। श्रीमान् प्रणवः गोगटेमहोदयः शिक्षकरुपेण शिबिरसञ्चालनं कृतवान्।
शिबिरे १० महिलाः ३ पुरुषाः आहत्य १३ जनाः च निरन्तरम् उपस्थिताः आसन्।
शिबिरस्य समापनदिने अतिथि रुपेण मुम्बै विद्यापीठस्य सङ्गणकविभागप्रमुखा मान्या डॉ. अम्बुजा साळगांवकरमहोदया उपस्थिता आसीत्। यजमानपदं भूषितवती संस्कृत-विभाग-प्रमुखा मान्या डॉ. सुचित्रा ताजणे।
संस्कृतभारती पक्षतः प्रान्तसम्पर्कप्रमुखः मान्यः हरेशः आमडेकरमहोदयः वक्तारुपेण उपस्थितः। संस्कृतस्य सम्भाषणाभ्यासस्य विषये महोदयः उद्बोधनं कृतवान्।
छात्रैः विविधाः कार्यक्रमाः उत्तमरित्या प्रस्तुताः। अग्रे साप्ताहिक वर्गस्य निश्चित्ति अभवत् ।
धन्यवादाः।
-मन्दाकिनी मोढे , अनुजा पुरन्दरे
*जयतु संस्कृतं जयतु भारतम्।
*






