सुभाषितरसास्वाद:

क्रीडनकान्यपि घटितानि संगृह्य मृत्तिकाम् |
न तथापि मोदते मन: शैशवे यथा ||

—-तरंगिणी खोत

यथा रुद्धं जलं भित्त्वा तटान् वहति स्वेच्छया |
तथा संस्कृतवाक्सद्यः प्रवहतीति निश्चितम् ||

—- डॉ. प्रसाद भिडे

किमर्थं सदा रटनं भ्वादिचुरादिसमासानाम्
रसास्वादवर्गमागच्छतु मिलतु रसविद्वरान् ।।
—–मनीष राजन वाळवेकर

संस्कृते लेखनम् !
संस्कृते कवनम्!
संस्कृतं जीवनम्!
संस्कृतेः  रक्षणम्  !!!!!!

सुभाषितरसास्वादः
अमृतानुभवः खलु …!
साहित्यसलिला नित्यं
सर्वत्र तटिनी वहेत्..!!

अद्य तु मयाऽनुभूयते यद्….
विविधाऽमृतश्लोकानां
तरङ्गैर्भूषिता खलु  !
सरवं वहन्ती दृष्टा
सुभाषितपयस्विनी…!!

गीर्वागमृतसिक्तानि
श्लोकाम्भोजानि साम्प्रतम् !
दृष्यन्ते रमणीयानि
सुभाषितरसाशये  !!
—–राजेन्द्र भावे

उदिते ग्रह’राजेन्द्रे’ पद्मनाथे च भास्वति ।
विकसन्ति हि पद्मानि फुल्लानि तस्य तेजसा ।।

—- प्रतीक रुमडे

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP