शक्तिस्तुति:

श्रीहरे तव गीर्मखेsस्मिन् घृतासारो हुतो भवेत्।

शीतलेsस्मिन् पावके स्यात् आद्यबिन्दोरर्पणम्।।

—- मुग्धा रिसबुड

वाणीवीणाधारिणीं नमाम्यहम् ।
तल्लीनां भूत्वा त्वत्कृपां लभेsहम् ।.

लीना दोशी

सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः ।
गद्यपद्यमाध्यमेन सर्वैः स्तूयेत शारदा ।।

धान्यदे हर्षदे देवि कृषकानन्ददायिनी।
सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।।

सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः ।
गद्यपद्यमाध्यमेन सर्वैः स्तूयेत शारदा ।।
धान्यदे हर्षदे देवि कृषकानन्ददायिनी।
सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।।

महिषासुरनाशाय कात्यायनेन पूजिता ।
सिंहारूढासिहस्ता या कात्यायनि नमोऽस्तु ते ।।

स्कन्दमाता शरण्या या चतुर्बाहुसमन्विता ।
पद्मासना पद्महस्ता मोक्षमार्गप्रदायिनी ।।

नमः कृष्णवर्णे नमो मुक्तकेशे
भयंकारिणी त्वं शुभंदायिनी त्वम्।
नमो भूतप्रेतादिभीतत्रिनेत्रे
नमः कालरात्र्यै जगत्त्वं सुपाहि।।7।।
श्रीहरी गोकर्णकर

शक्ये कर्मणि सामर्थ्यम् अलं भवति सिद्धये  |
अशक्यं तु भवेच्छक्यं श्रद्धया एव केवलम् ||

देहि ऐश्वर्यमारोग्यं देहि मे विमलां मतिम् |
उन्मीलय प्रज्ञाचक्षु: येनात्मा लक्षितो भवेत् ||

—-तरंगिणी खोत

कायेन वाचा मनसेन्द्रियैर्वा
यो यः स्मरेत्तां  सकलार्थसिद्ध्यै।
सा शक्तिरूपा नवरात्रभूतिर्
आयाति नित्यं वचनस्य पूर्त्यै ॥

सा मर्दिनी स्यात्खलनाशनार्थम्
मातामयी सा जगत्पालनार्थम्।
देवैरभीष्टा शिवस्यार्धभागा
आयाति नित्यं वचनस्य पूर्त्यै ॥

—–हर्षदा सावरकर
आदिशक्त्याद्यस्वरूपिणीं नवदुर्गे नवरूपधारिणीम्
मूलाधारस्थितां नमामि त्वामखिलभूतसारशैलपुत्रीम् ।
शूलशोभितकरवरप्रदायिनीं कमलहस्तार्धचन्द्रशेखरीम्
जनय चित्तपरिपाकसिद्धिं देवि सकलमङ्गलदायिनीम् ।।

पूर्वाख्यातामुमां प्रणमामि सततं योगिनीं तपश्चारिणीम्
नौमि स्वाधिष्ठानाम्बुजगतां ज्ञानविरतिमार्गानुगामिनीम् ।
श्वेतवसनाक्षमालादिधारिणीं शिवजयिनीं ब्रह्मचारिणीम्
एधतां मे विशुद्धदृष्टिविभवं प्रसरेज्जनकल्याणप्रीतिम्।।
—–रुचिता राणे

नवरसयुक्ताम् नानारूपधराम् निखिलविश्ववन्दितां तां नमाम्यहम्।
नवतेजयुक्ताम् नानायुधधराम् नीलवस्त्रमण्डितां तां नमाम्यहम्।।
—-मेघना देवधर.

स्पन्दमानं यथा तेज आदौ यच्चञ्चलायते|
स्थिरीभूय ततः स्वेन करोति अखिलं ततम्||
तथैव सगुणे रूपे भूरिभावादिधारिणि|
निर्गुणत्वे त्वयि प्राप्ते
एकार्णवप्रकाशिणि||
नाहं समर्था विलयितुं
देहरूपे शुभे तव||
शुभतरं स्पंदनं नौमि|
सर्वतेजस्वरूपिणि||

—-मुग्धा रिसबुड

नाहं जानामि छन्दांसि नाहं च गीतलेखनम् ।

रसास्वादं तु जानामि ‘रसास्वादस्य’ दर्शनात् ।।
परं हि नवरात्रेऽस्मिन् प्रयत्नः क्रियते मया ।
दुर्गादेव्याः प्रसादेन प्रतिभा लसतु सदा ।।

विदग्धानपि प्रेरयति बालानपि हि बोधयति ।
रीतिरेषास्वादनस्य मन्ये बोधप्रदायिनी ।।

तृतीयाहुत्यर्पणाय प्रणमामि भगवतीम् ।
एषाहुतिर्नाहुतिः परं मे बिन्दोरर्पणम् ।।
भगवति जय जय सरस्वति बुद्धिं शक्तिं च मे देहि ।
पादारविन्दं नमस्कृत्य काव्यरागी भवामि हि ।।

विदग्धानपि प्रेरयति बालानपि हि बोधयति ।
रीतिरेषास्वादनस्य मन्ये बोधप्रदायिनी ।।
————–
किमर्थं सदा रटनं भ्वादिचुरादिसमासानाम् ।
रसास्वादवर्गमागच्छतु मिलतु रसविद्वरान् ।।

पद्मालयां प्रणमामि पद्मिनी पातु पतितान् ।
पतितपावना पद्मस्थिता प्रणवरूपिणी पातु वः ।।

—-मनीष राजन वाळवेकर

जय शारदे वागीश्वरि
प्रयच्छ मे तादृशीं मतिम्।
शारदीये अस्मिन् उत्सवे
स्फुरतु ते स्तुतिः मे वाचि ।।

त्यागवैराग्यस्य त्वमेव प्रतीकम् |
ब्रह्मचारिणि, ते रूपमद्भूतम् ||
नाययतु नः सदा सत्पन्थानम् |
द्वितीयदिनेsस्मिन् इत्येव कांक्षितम् ||

अस्थिरोsस्ति चित्तमस्माकम्
त्वत्प्रसादेन कुरु सुस्थिरम् |
स्वर्णोज्ज्वलां सुशोभितशस्त्राम्
देवीं चंद्रघण्टां तां नमाम्यहम् |।

व्याप्तमासीज्जगत्सर्वं यदान्धकारेण
ब्रह्माण्डमेतन्निर्मितं यया मन्दहासेन ।
नौमि तां सिंहारूढां अष्टभुजामादिशक्तिम्,
देहि सुखसमृद्धिं प्रार्थनमेतत् कुष्मांडादेवीम् ||
महोत्सव: सम्पद्यते यान्तु सर्वे करवीरनगरम्
ललितापंचमीदिनमेवास्ति तत्र कारणम् |
‘अंबाबाई’ यास्यत्यद्य ‘त्र्यम्बुलीदेवीमंदिरम्’
तयोर्भगिन्योर्मेलनम् भवतु नः शुभंकरम् |।

अयि जगज्जननि अतिमनोहारिणि विघ्नविनाशिनि रूपं ते
शक्तिपीठभूषिणि कोलासुरनाशिनि वाञ्छितदायिनि महिमा ते |
भगवति हे कुलरक्षणकारिणि पापनिवारिणि भक्तप्रिये
जय जय हे करवीरनिवासिनि धनसुखदायिनि विष्णुप्रिये ||

आदिशक्तिधारिणीं करवीरक्षेत्रवासिनीम्
दैन्यदुःखहारिणीं परब्रह्मस्वरूपिणीम् |

पावितं मनश्चबुद्धिसुस्थिरा ते दर्शनात्
विलासहासकोमलं तनोतु देवि नः शुभम् ||

—- अश्विनी अष्टेकर

दुर्गेऽम्बिके चण्डिके च
शुभदे गौरि सर्वदे ।
कामदे मोक्षदे चैव
पाह्यस्मान् गिरिकन्यके ॥

—–स्वाती जाधव

मातर्भवानि ते हि कृपा यत्तारयति भक्तान्।
अगाधमहिमा ते हि हे मातर् वारयति संकटात्।।
——-अपूर्वा निबंधे

सिंहासनगता नित्यं पद्माश्रितकरद्वया।
शुभादास्तु सदा देवी स्कन्दमाता यशस्विनी ।।
——प्रज्ञा खासनीस


गौरि त्वमेव ज्ञानप्रेरणा
शोभे त्वमेव ज्ञानारणा
गौरि त्वमेव सकलदा
शोभे त्वमेव अमलदा
गौरि त्वमेव नः दात्री
शोभे त्वमेव निजधात्री
गौरि शोभा तवैव नाम्ना
शोभते मे मतिः तवैव प्रेम्णा

ललितालीलाकर्त्रीं  दुष्प्रधर्षां मानिनीगते ।
कुटुम्बसौख्यदायिनीं नौमि वत्सलताप्रदायिनीम् ।।

ललितालीलाकारिणीं
दुष्प्रधर्षां मानिनीं
कुटुम्बवत्सलतादायिनीं
नौमि अपवर्गप्रदायिनीम् ।।

—- राहुल सातघर

जय शारदे शुभ्रवस्त्राङ्किते हंसवाहिनि
शाधि मां त्वां प्रपन्नं जयोऽस्तु ते ।

सकलाभीष्टार्थान् दत्तवती ज्ञानदायिनी
अल्पमतिर्मूढमतिरहं नमोऽस्तु ते ।।
—-प्राची मोघे

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP