शक्तिस्तुति:

सौम्या सुमनोनिलया
संगमयित्री जनानाम्
संपूज्यते सुवचोभि:
सर्वशुक्ला सरस्वती ।।

नीलाम् नीलाभवसनाम् नभःस्पृशयशोज्ज्वलाम्
नीलाद्रिनिलयाम् नम्राम् नौमि नानारूपधराम्।।

ताम् रक्तवर्णाम् पाटलपुष्पपूजिताम्
मणिकुण्डलाभ्यामारक्तदुकूलवस्त्राम्
महालक्ष्मीम् विष्णुप्रियाम् प्रणतास्मि नित्यम्
धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः ।

तां रक्तवर्णां पाटलपुष्पपूजितां मणिकुण्डलाभ्यामारक्तदुकूलवस्त्रां महालक्ष्मीं

विष्णुप्रियां प्रणतास्मि नित्यं धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः ।

मरकतमालाधरा मोहिनी मानसी हंसी विहरतु मन्मानसे मूढजनसंतारिणी।
सस्यश्यामला हरिता चित्तापहारिणी अंबा अपक्वताम् मम मत्या: दूरीकरोतु सपदि ।।
नीलां नीलाभवसनां नभःस्पृशयशोज्ज्वलां

नीलाद्रिनिलयां नम्रां नौमि नानारूपधराम् ।।

असृष्टा सृष्टिकर्त्री च विसृष्टिम् त्वं सृजसीमाम्
त्वया सृष्टं जगत् स्थूलं न मे लाभायेतःपरम्।।

सुवर्णां सुमनोहराम् सुवर्णा भरणभूषिताम्
सुमुखीम् सुवचोयुक्ताम् स्मरामि सुष्मिताम् सदा।
काली श्यामा शिवप्रिया कीलालनिधेस्तनया
वीणावादिनी शारदा
नः पातु देवी त्रिरूपा।।
विशुद्धज्ञानशरीरा
संशुद्धात्मस्वरूपिणी
मनोरमा भगवती
प्रापयेन्मामात्मगतिम्।।

रूपदा यशदा नित्यं शर्मदा सुभगा तथा
ललिता भाग्यदा देवी गतिदा अस्तु मे सदा।
त्रिगुणाम् निर्गुणाम् चैव स्थूलरूपाम् सूक्ष्मात्मिकाम्
नैकामेकाम् प्रणतास्मि दुर्गां सुगमाममलाम् ।।

—- डॉ. गौरी माहुलीकर

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP