नमामि शारदां देवीं अज्ञानतमहारिणीम्।
वाग्देवीं श्वेतवसनां तां कृपावर्षावकारिणीम्।।
वन्दे पार्वतीं देवीं मातृरूपां सुहासिनीम्।
शिवस्यार्धांगिनीं गौरीं सर्वदा शिवकारिणीम्।।
नमामि लक्ष्मीदेवीं तां
हिरण्यवर्णधारिणीम्।
पद्मासनस्थितां नित्यं सर्वसमृद्धिदायिनीम्।।
अन्नपूर्णाम् सदा वन्दे पूर्णब्रह्मप्रदायिनीम्।
स्वास्थ्यं दत्त्वा जनान्नित्यं
सन्तुष्टिपुष्टिदायिनीम्।।
वन्दे देवीं महादुर्गां महिषासुरमर्दिनीम्।
असुराणां कृते घोरां
सतां संकटहारिणीम्।।
देवीपञ्चकमेतन्नित्यं वसतु मे हृदि।
स्मृत्वा हि देवीरूपाणि भूयो भूयो नमाम्यहम्।।
Composed By – Prachi Upasani Pathak