राष्ट्रीय वेबिनार:-‘श्री श्री आनन्दमूर्तिजीमहोदयस्य बहुविधं योगदानम्’ |- ११ऑक्टोबर २०२१

  

अयि मान्या: संस्कृतानुरागिण: |

संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति | वेद-शास्त्र-पुराण-इतिहास-काव्य-नाटक-दर्शनादिभि: अनन्तवाङ्मयरूपेण विलसन्ति एषां देववाक् | न केवलं धर्म-अर्थ-काम-मोक्षात्मका: चतुर्विधपुरुषार्थहेतुभूता: विषया: अस्या: साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक-नैतिक-आध्यात्मिक-लौकिक-पारलौकिक विषयै: अपि सुसंपन्ना इव देववाणी | संस्कृतभाषाया: संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं |

          एवमेव मुम्बई विश्वविद्यालयस्य संस्कृत विभाग: तथा रेनेझन्स युनिवर्सल (मुम्बई) संस्थाया: संयुक्तरूपेण २०२१ वर्षस्य ऑक्टोबर मासस्य ११ दिनाङ्के   राष्ट्रीय वेबिनार: सम्पन्न: जात: | ‘श्री श्री आनन्दमूर्तिजीमहोदयस्य बहुविधं योगदानम्’ इति वेबिनारस्य विषय: | अस्मिन् वर्षे कोरोनाविषाणो: कारणात् ऑनलाईन माध्यमेन सर्वे एकत्रीभूता: इत्युक्ते संस्कृते तेषां मातृवत् आस्था | कार्यक्रमस्य प्रारम्भ: ड़ॉ.शकुन्तला गावडे महोदयाया: (संस्कृत विभागप्रमुखा, मुम्बई विश्वविद्यालय) स्वागत तथा प्रास्ताविक भाषणेन सञ्जात: |

         प्रोफ़े.एस्.आर्.भटमहोदयेन कार्यक्रमस्य मुख्यअतिथीपदं भूषितवन्त: | अध्यक्षरूपेण प्रोफ़े.गोपालचन्द्र मिश्रमहोदय: उपस्थित: | कार्यक्रमस्य सूत्रसञ्चलनं कुर्वन् आसीत् विभागप्राध्यापक: अजय पेण्डसेमहोदय: | कार्यक्रमस्य आरम्भ: ड़ॉ.मनीषा कुलकर्णीमहोदयाया: (सहायक प्राध्यापिका, सङ्गीतविभाग, मुम्बई विश्वविद्यालय) सुश्राव्य प्रभात सङ्गीतेन जात: | दरबारीकानडारागाधारिता सरस्वतिवन्दना अतीव श्रवणीया | तस्या: संशोधनपत्रविषय: ‘प्रभातसङ्गीत:’ | प्रभात सङ्गीतस्य सूक्ष्मविवेचनं राग जौनपुरी तथा शिवरञ्जनी रागस्य माध्यमेन कारित: ड़ॉ.कुलकर्णी महोदयया |

            तदनन्तरं प्रोफ़े.बुलबुल धर (सहायक प्राध्यापिका, राज्यशास्त्रविभाग, जामिया मिलिया इस्लामिया विद्यापीठ) महोदयया संशोधनपत्रस्य वाचनं कृतम् | तस्या: विषय: ‘योगमानसशास्त्रम्’ इति | महोदयया योगविषये अभ्यासपूर्णं व्याख्यानं प्रोक्तम् | अनन्तरं ड़ॉ.करुणाशङ्कर उपाध्याय (हिन्दीविभागप्रमुख, मुम्बई विश्वविद्यालय) महोदयेन श्री आनन्दमूर्तिजीमहोदयस्य साहित्यविषये अभ्यासपूर्णं शोधपत्रं सादरीकृतम् | अन्ते ड़ॉ.सिन्धू पौडयाल महोदयया शोधपत्रस्य वाचनं कृतम् | तस्या: विषय: ‘आनन्दसूत्रम्’ इति | तस्या: विषये ड़ॉ.सिन्धू महोदयया श्री आनन्दमूर्तिजीमहोदयस्य PROUT सिद्धान्त: प्रोक्त: | श्री आनन्दमूर्तिजीमहोदयस्य नवमानवतावादी दृष्टिकोन: अतीव तटस्थं तथा प्रेरणादायकम् | अन्ते आचार्यदिव्य चेतनानन्दअवधूत महोदयेन आभारप्रदर्शनं कृतम् | एवं संस्कृत विभागद्वारा आयोजित: राष्ट्रीयवेबिनार: उत्साहेन सञ्जात: |

– ड़ॉ.मेधा देशपाण्डे

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP