नमामि शारदां देवीं अज्ञानतमहारिणीम्। वाग्देवीं श्वेतवसनां तां कृपावर्षावकारिणीम्।। वन्दे पार्वतीं देवीं मातृरूपां सुहासिनीम्। शिवस्यार्धांगिनीं गौरीं सर्वदा शिवकारिणीम्।। नमामि लक्ष्मीदेवीं तां हिरण्यवर्णधारिणीम्। पद्मासनस्थितां नित्यं सर्वसमृद्धिदायिनीम्।। अन्नपूर्णाम् सदा वन्दे पूर्णब्रह्मप्रदायिनीम्। स्वास्थ्यं दत्त्वा जनान्नित्यं सन्तुष्टिपुष्टिदायिनीम्।। वन्दे देवीं महादुर्गां महिषासुरमर्दिनीम्। असुराणां कृते घोरां सतां संकटहारिणीम्।। देवीपञ्चकमेतन्नित्यं वसतु मे हृदि। स्मृत्वा हि देवीरूपाणि भूयो भूयो नमाम्यहम्।। Composed By – Prachi …
क्रीडनकान्यपि घटितानि संगृह्य मृत्तिकाम् | न तथापि मोदते मन: शैशवे यथा || —-तरंगिणी खोत यथा रुद्धं जलं भित्त्वा तटान् वहति स्वेच्छया | तथा संस्कृतवाक्सद्यः प्रवहतीति निश्चितम् || —- डॉ. प्रसाद भिडे किमर्थं सदा रटनं भ्वादिचुरादिसमासानाम् । रसास्वादवर्गमागच्छतु मिलतु रसविद्वरान् ।। —–मनीष राजन वाळवेकर संस्कृते लेखनम् ! संस्कृते कवनम्! संस्कृतं जीवनम्! संस्कृतेः  रक्षणम्  !!!!!! सुभाषितरसास्वादः अमृतानुभवः …
श्रीहरे तव गीर्मखेsस्मिन् घृतासारो हुतो भवेत्। शीतलेsस्मिन् पावके स्यात् आद्यबिन्दोरर्पणम्।। —- मुग्धा रिसबुड वाणीवीणाधारिणीं नमाम्यहम् । तल्लीनां भूत्वा त्वत्कृपां लभेsहम् ।. —लीना दोशी सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः स्तूयेत शारदा ।। धान्यदे हर्षदे देवि कृषकानन्ददायिनी। सद्यः स्वहन्यमानेषु प्रसन्ना भव सर्वदे।। सर्वेऽत्र कवयः सन्तु सर्वे सन्तु च लेखकाः । गद्यपद्यमाध्यमेन सर्वैः …
PAGE TOP