Category : Sanskrit compositions

11 posts

सौम्या सुमनोनिलया संगमयित्री जनानाम् संपूज्यते सुवचोभि: सर्वशुक्ला सरस्वती ।। नीलाम् नीलाभवसनाम् नभःस्पृशयशोज्ज्वलाम् नीलाद्रिनिलयाम् नम्राम् नौमि नानारूपधराम्।। ताम् रक्तवर्णाम् पाटलपुष्पपूजिताम् मणिकुण्डलाभ्यामारक्तदुकूलवस्त्राम् महालक्ष्मीम् विष्णुप्रियाम् प्रणतास्मि नित्यम् धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । तां रक्तवर्णां पाटलपुष्पपूजितां मणिकुण्डलाभ्यामारक्तदुकूलवस्त्रां महालक्ष्मीं विष्णुप्रियां प्रणतास्मि नित्यं धनधान्यापत्यविभवं सा दद्याज्जनेभ्यः । मरकतमालाधरा मोहिनी मानसी हंसी विहरतु मन्मानसे मूढजनसंतारिणी। सस्यश्यामला हरिता चित्तापहारिणी अंबा अपक्वताम् मम मत्या: दूरीकरोतु सपदि ।। …
अथ विश्वेशः सर्वात्मक: | वाग्यज्ञादिह तुष्यतु | तुष्ट्वेदं मे प्रयच्छतु | प्रसाददानम् ||१|| खलत्वं नश्यतु खलानाम् | सत्कर्मे ते रमन्ताम् | परस्परसख्यं वर्धताम् | जीवभूते ||२|| तमस्तु नश्यतु दुरितानाम् | स्वधर्मसूर्य: प्रकाशताम् | वाञ्छानुरूपं लभताम् | प्राणिमात्रम् ||३|| वर्षतु सकलमङ्गलम् | ईश्वरनिष्ठानां मण्डलम् | समेतु भूमौ अनवरतम् | भूतै: सार्धम् ||४|| चलत्कल्पतरूणां सन्निधि: | तिष्ठति …
PAGE TOP