संस्कृतभवनसंस्कृतदिनाचरणम्
दिनाङ्कः → २९ ऑगस्ट २०२६, शनिवासरः
समयः – मध्याह्ने १२:०० वादनतः १:०० वादनपर्यन्तम्
स्थानम् – मेलनकक्षः, संस्कृतभवनम्
‘संस्कृतदिनाचरणम्’ इति कार्यक्रमः (M.A Sanskrit Sem 1) छात्रैः आतिथ्येन आयोजितः। कार्यक्रमेप्रेक्षकाः शिक्षकाः छात्राः
जनाः च उपस्थिताः आसन्। कार्यक्रमस्य आरम्भः समूहगीतेन अभवत्।
कार्यक्रमे सूर्याष्टकं तथा अन्येषां गीतानां गायनमभवत्।
कार्यक्रमे मुख्यातिथिरूपेण
मान्या माधवी नरसाळे महोदया आमन्त्रिता। सा संस्कृतभाषायाः , संस्कृतसप्ताहस्य.च महत्वम् उक्त्वा सभां बोधितवती।
कार्यक्रमे वस्तुचित्रप्रदर्शिन्याः आयोजनम् अपि कृतम्।
सा छात्रैः कृतः प्रदर्शन्याः उद्घाटनं कृतवती। छात्राणां कार्यं श्लाघितवती।
अस्मिन् अवसरे शिक्षकैः छात्रेभ्यः भगवद्गीतापुस्तकरूपेण आशीर्वादाः प्रदत्ताः।
कार्यक्रमस्य अनेके तृप्तिनिर्देशनं कृतवन्तः । आनन्देन कार्यक्रमः सम्पन्नः जातः।
-इति वृत्तम्- पल्लवी सुर्वे
जयतु संस्कृतम् । जयतु भारतम् ।