संस्कृत दिन वृत्तम् -२३ ऑक्टोबर २०२१

                                     

अयि संस्कृतानुरागिण: |

संस्कृतदिनपर्वस्य शुभाषया: | संस्कृतम् जगत: अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते | संस्कृता वाक्, भारती, सुरभारती, अमरभारती, अमरवाणी, सुरवाणी, गीर्वाणवाणी, गीर्वाणी, देववाणी, देवभाषा, देवीवाक् इत्यादिभि: नामभि: एतद्भाषा प्रसिद्धा | संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अस्ति | स्वधर्मस्य स्वसभ्यताया: राष्ट्रीयेतिहासस्य संस्कृतेश्च ज्ञानाय संस्कृतज्ञानं आवश्यकं अस्ति | मुम्बईविद्यापीठस्य संस्कृतविभागेन संस्कृतदिनावसरे संस्कृतसप्ताहसमारोह: आयोजित: | भारतसर्वकारस्य शिक्षामन्त्रालयस्य आदेशानुसारं प्रतिवर्षं श्रावणपौर्णिमायां संस्कृतदिनं सम्परिपाल्यते | एवमेव अस्माकं मुम्बईविद्यापीठस्य  संस्कृतविभागे अपि २०२१ वर्षस्य ऑक्टोबरमासस्य २३ दिनाङ्के उत्सवारम्भ: अभवत् |

             कार्यक्रमस्य प्रारम्भ: मुम्बईविद्यापीठगीतेन तथा च डॉ.मेधा देशपाण्डे महोदयाया: सरस्वतिवन्दनेन सञ्जात: | प्रारम्भ: डॉ.शकुन्तला गावडे महोदयाया: (संस्कृतविभागप्रमुखा, मुम्बई विद्यापीठ) स्वागत तथा प्रास्ताविकभाषणेन सञ्जात: | कार्यक्रमे प्रमुखातिथिपदं भूषितवन्त: माननीया: हरिराममिश्रमहोदया: (वरिष्ठ: प्राध्यापक: संस्कृत एवं प्राच्यविद्या अध्ययनसंस्थानम्, जवाहरलाल नेहरू विश्वविद्यालय: |) महोदयेन ‘आधुनिककाले कौटिलीय-अर्थशास्त्रस्य औचित्यम्’ इति विषये व्याख्यानं सादरीकृतम् | मिश्रमहोदयेन कौटिलीय अर्थशास्त्रे आगता: विद्यासमुद्देशः, वृद्धसमुद्देशः, इन्द्रियजयः, अमात्य उत्पत्तिः, मन्त्रिपुरोहित उत्पत्तिः, उपधाभिः शौचाशौचज्ञानं अमात्यानां, जनपदनिवेशः, भूमिच्छिद्रापिधानं, दुर्गविधानं, व्यवहारस्थापना, विवादपदनिबन्धः, विवाहसम्युक्तं, दायविभागः, दूतकर्म, मन्त्रयुद्धं, सेनामुख्यवधः, मण्डलप्रोत्साहनं, शस्त्राग्निरसप्रणिधयः, आदि महत्त्वपूर्णविषया: विवेचिता: | महोदयेन आधुनिककाले अर्थशास्त्रस्य औचित्यं साधारं प्रतिपादितम् | अतीव अभ्यासपूर्णं व्याख्यानं खलु |

                         अनन्तरं विभागेन संपादितस्य ‘महत्तम: महाराजाधिराज: शिवाजि:’ इति पुस्तकप्रकाशनस्य उद्घोषणा सञ्जाता | मूललेखकेन डॉ.हेमन्तराजे गायकवाड महोदयेन पुस्तकस्य विषये मनोगतं व्यक्तं कृतम् | विभागप्राध्यापिका डॉ.सुचित्रा ताजणेमहोदया ‘श्री.रघुनाथपन्त हणमन्ते पुरस्कारेण’ सम्मानिता इति उद्घोषणा डॉ.गायकवाड महोदयेन कृता | कार्यक्रमस्य सूत्रसञ्चलनं कुर्वन् आसीत् डॉ.मेधा देशपाण्डे महोदया | अन्ते विभागप्राध्यापिका डॉ.सुचित्रा ताजणे महोदयया ॠणनिर्देशनं कृतम् | एवं संस्कृतविभागद्वारा आयोजित: संस्कृतदिन: उत्साहेन सञ्जात: |  

– डॉ.मेधा देशपाण्डे

Leave a Reply

Your email address will not be published. Required fields are marked *

PAGE TOP